वांछित मन्त्र चुनें

ज्योति॑ष्मन्तं केतु॒मन्तं॑ त्रिच॒क्रं सु॒खं रथं॑ सु॒षदं॒ भूरि॑वारम् । चि॒त्राम॑घा॒ यस्य॒ योगे॑ऽधिजज्ञे॒ तं वां॑ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ॥

अंग्रेज़ी लिप्यंतरण

jyotiṣmantaṁ ketumantaṁ tricakraṁ sukhaṁ rathaṁ suṣadam bhūrivāram | citrāmaghā yasya yoge dhijajñe taṁ vāṁ huve ati riktam pibadhyai ||

पद पाठ

ज्योति॑ष्मन्तम् । के॒तु॒ऽमन्त॑म् । त्रि॒ऽच॒क्रम् । सु॒ऽखम् । रथ॑म् । सु॒ऽसद॑म् । भूरि॑ऽवारम् । चि॒त्रऽम॑घा । यस्य॑ । योगे॑ । अ॒धि॒ऽज॒ज्ञे॒ । तम् । वा॒म् । हु॒वे । अति॑ । रिक्त॑म् । पिब॑ध्यै ॥ ८.५८.३

ऋग्वेद » मण्डल:8» सूक्त:58» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:29» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3